|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.188. अध्यायः 188
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्राद्धविद्यादिप्रतिपादकपितृदेवदूतादिसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[*युधिष्ठिर उवाच।
जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम्।
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह॥ 13-188-1(88831)
दानानामुत्तमं यच्च देयं यच्च यथायथा।
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि॥ 13-188-2(88832)
वैशम्पायन उवाच। 13-188-3x(7405)
एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना।
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम्॥ 13-188-3(88833)
भीष्म उवाच। 13-188-4x(7406)
शृणुष्वावहितो राजन्धर्मगुह्यानि भारत।
यथाहि भगवान्व्यासः पुरा कथितवान्मयि॥ 13-188-4(88834)
देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा।
नियमस्थेन युक्तेन तपसो महतः फलम्॥ 13-188-5(88835)
येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा।
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः॥ 13-188-6(88836)
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः।
महादानफलं चैव सर्वयज्ञफलं तथा॥ 13-188-7(88837)
यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ।
सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते॥ 13-188-8(88838)
दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः 13-188-9(88839)
अर्घेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः।
त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम्॥ 13-188-10(88840)
धर्मिव्याकरणं पुण्यं रहस्यश्रवणं महत्।
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम्॥ 13-188-11(88841)
पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि।
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम्॥ 13-188-12(88842)
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः।
महायज्ञफलं चैव सर्वदानफलं तथा॥ 13-188-13(88843)
ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति।
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः॥ 13-188-14(88844)
गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम्।
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः॥ 13-188-15(88845)
श्रोतारः श्रद्धधानाश्च येषां शुद्धं च मानसम्।
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना॥ 13-188-16(88846)
मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते।
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः॥ 13-188-17(88847)
कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया।
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम्॥ 13-188-18(88848)
यो तौ कामगुणोपेतावश्विनौ भिषजां वरौ।
आज्ञयाऽहं तयोः प्राप्तः सनरान्पितृदैवतान्॥ 13-188-19(88849)
कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम्।
केमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक्॥ 13-188-20(88850)
प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति।
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम्॥ 13-188-21(88851)
श्रद्दधानेन दूतेन भाषितं धर्मसंहितम्।
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम्॥ 13-188-22(88852)
पितर ऊचुः। 13-188-23x(7407)
स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम।
गूढार्थः परमः प्रश्नो भवता समुदीरितः॥ 13-188-23(88853)
श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत्।
पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते॥ 13-188-24(88854)
प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः।
पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत्॥ 13-188-25(88855)
पिण्डं तु मध्यमं तत्र पत्नीत्वेका समश्नुते।
पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि।
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते॥ 13-188-26(88856)
पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा।
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति॥ 13-188-27(88857)
देवदूत उवाच। 13-188-28x(7408)
आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक्।
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया॥ 13-188-28(88858)
एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति।
कं वा प्रीणयते देवं कथं तारयते पितॄन्॥ 13-188-29(88859)
मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि।
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते॥ 13-188-30(88860)
अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम्।
भवते का गतिस्तस्य कं वा समनुगच्छति॥ 13-188-31(88861)
एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः।
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते॥ 13-188-32(88862)
पितर ऊचुः। 13-188-33x(7409)
सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः।
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर॥ 13-188-33(88863)
एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा।
तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्।
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम्॥ 13-188-34(88864)
पितृभक्तस्तु यो विप्रो वलब्धो महायशाः।
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम्॥ 13-188-35(88865)
देवदूतेन यः पृष्टः श्राद्धस्य विदिनिश्चयः।
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम॥ 13-188-36(88866)
अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत्।
शशी प्रीणयते देवान्पितॄंश्चैव महामते॥ 13-188-37(88867)
भुङ्क्ते तु पत्नीं यं चैषामनुज्ञाता तु मध्यमम्।
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः॥ 13-188-38(88868)
हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे।
पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च।
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः॥ 13-188-39(88869)
ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति।
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम्॥ 13-188-40(88870)
शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम।
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा॥ 13-188-41(88871)
तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः।
प्रजा विवर्दते चास्य चश्चैवं सम्प्रयच्छति॥ 13-188-42(88872)
ततो विद्युत्प्रभो नाम ऋषिराह महातपाः।
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते॥ 13-188-43(88873)
स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत्॥ 13-188-44(88874)
तिर्यग्योनिगतान्सत्वान्मर्त्या हिंसन्ति मोहिताः।
कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः।
किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया॥ 13-188-45(88875)
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः।
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम्॥ 13-188-46(88876)
शक्र उवाच। 13-188-47x(7410)
कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च।
एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम्।
तथा मुच्यति पापेनि राहुणा चन्द्रमा यथा॥ 13-188-47(88877)
त्र्यहं स्नातः स भवति निराहारश्च वर्तते।
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति॥ 13-188-48(88878)
ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम्।
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो॥ 13-188-49(88879)
घृष्टो वटकषायेणि अनुलिप्तः प्रियङ्गुणा।
क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते॥ 13-188-50(88880)
श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम्।
श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः।
रुद्रेण सह देवेश तन्निबोध शचीपते॥ 13-188-51(88881)
पर्वतारोहणं कृत्वा एकपादो विभावसुम्।
निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः।
तपसा महता युक्त उपवासफलं लभेत्॥ 13-188-52(88882)
रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति।
ग्रीष्मकालेऽथवा शीते एवं पापमपोहति॥ 13-188-53(88883)
ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती।
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पनः॥ 13-188-54(88884)
मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः।
उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम्॥ 13-188-54(88885)
धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम्।
सरहस्याश्च ये दोषास्तान्यथावदुदीरथ॥ 13-188-56(88886)
बृहस्पतिरुवाच। 13-188-57x(7411)
प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये।
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति॥ 13-188-57(88887)
बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात्।
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते॥ 13-188-58(88888)
भानुमाननिलश्चैव हव्यवाहश्च वासव।
लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा॥ 13-188-59(88889)
लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः।
सर्वे भवन्तः शृणिवन्तु एकैकं धर्मनिश्चयम्॥ 13-188-60(88890)
वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः।
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम्॥ 13-188-61(88891)
अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा।
हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति।
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः॥ 13-188-62(88892)
क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः।
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः॥ 13-188-63(88893)
प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च।
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः॥ 13-188-64(88894)
तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः।
भूतिकामेनि मर्त्येन सत्यमेतद्ब्रवीमि ते॥ 13-188-65(88895)
ततः सर्वा महाभाग देवताः समरुद्गणाः।
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः॥ 13-188-66(88896)
पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम्।
अक्षयं च कथं दानं भवेच्चैवौर्ध्वदेहिकम्॥ 13-188-67(88897)
आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा।
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः॥ 13-188-68(88898)
पितर ऊचुः। 13-188-69x(7412)
न्यायतो वै महाभागाः संशयः समुदाहृतः।
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम्॥ 13-188-69(88899)
नीलषण्डप्रमोक्षेण अणावास्यां तिलोदकैः।
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत्॥ 13-188-70(88900)
अक्षयं निर्व्यलीकं च दानमेतन्महाफलम्।
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते॥ 13-188-71(88901)
श्रद्धधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम्।
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान्॥ 13-188-72(88902)
पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः।
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत्॥ 13-188-73(88903)
के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः।
वर्षासु दीपदानेन तथैव च तिलोदकैः॥ 13-188-74(88904)
पितर ऊचुः। 13-188-75x(7413)
नीलषण्डस्य लाङ्गूलं तोयमभ्युद्दरेद्यदि।
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः॥ 13-188-75(88905)
यस्तु शृङ्गगतं पङ्क्तं कूलादुद्धृत्य तिष्ठति।
पितरस्तेन गच्छन्ति सोमलोकमसंशयम्॥ 13-188-76(88906)
वर्षासु दीपदानेन शशीवच्छोभते नरः।
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति॥ 13-188-77(88907)
अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम्।
पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन।
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत्॥ 13-188-78(88908)
हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा।
कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्।
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत्॥ 13-188-79(88909)
एवमेव समुद्दिष्टः श्राद्धकालक्रमस्तथा।
विधिः पात्रं फलं चैव यथावदनुकीर्तितम्॥] ॥ 13-188-80(88910)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः॥ 188 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-188-5 यमेनप्राप्तमिति शेषः॥ 7-188-9 दशानां पशूनां सूना वधो यत्र सा पशुघ्नजातिर्दशसूना। चक्रं चक्रवान् तैलिकः। ध्वजः सुरापायी। नृपः क्षुद्रो राजा॥ 7-188-10 एवं दुष्प्रतिग्रहपराङ्मुखेन त्रिवर्गशास्त्रं धर्मार्थकामशास्त्राणि ज्ञेयानि॥ 7-188-14 पठन्ति शास्त्रम्। उपतिष्ठति सम्यक् स्फुरत्याचष्टे च यः स स्वयं नारायण एवेति ज्ञातव्यः॥ 7-188-19 सनरान् सहर्षीन्प्राप्तः प्रष्टुमिति शेषः॥ 7-188-22 पूज्य सम्पूज्य॥ 7-188-34 चिरजीविनं मार्कण्डेयम्॥ 7-188-40 यतः ऋत्विक् श्राद्धभोक्ता यजमानस्य पितृत्वं गच्छति तस्मादन्यात्मतां गतः स्वस्त्रियं न गच्छेत्। पारदार्यदोषतुल्यं ह्येतदित्यर्थः॥ 7-188-41 एतच्च वरणमारभ्य द्रष्टव्यमित्याशयेनाह शुचिनेति॥ 7-188-50 वटकषायेण वटजटाकषायेण। प्रियङ्गुः राजसर्षपः षष्टिकान् षष्टिरात्रेण पक्वधान्यम्॥ 7-188-52 विभावसुं सूर्यम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|